|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.79. अध्यायः 079
Mahabharata - Karna Parva - Chapter Topics
द्वन्द्वयुद्धम्॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
[धृतराष्ट्र उवाच। 8-79-0x(5027)(58891)
समागमे पाण्डवसृञ्जयानां
महाभये मामकानामगाधे।
धनञ्जये तात रणाय याते
कर्णेन तद्युद्वमथोऽत्र कीदृक्॥] 8-79-1(58892)
सञ्जय उवाच। 8-79-2x(5028)
तेषामनीकानि महाध्वजानि
रणे समृद्धानि सुसङ्गतानि।
भेरीनिरादोन्मुखराण्यंगर्ज--
न्मेघा इव प्रावृषि मारुतास्ताः॥ 8-79-2(58893)
महागजाभ्राकुलमस्त्रतोयं
वादित्रनेमीतलशब्दवच्च।
हिरण्यचित्रायुधविद्युतं च
शरासिनाराचमहास्त्रधारम्॥ 8-79-3(58894)
तद्भीमवेगं रुधिरौघवाहि
खङ्गाकुलं क्षत्रियजीवघाति।
अनार्तवं क्रूरमनिष्टवर्षं
बभूव संरम्भकरं प्रजानाम्॥ 8-79-4(58895)
एकं रथं सम्परिवार्य मृत्युं
नयन्त्यनेके च रथाः समेताः।
एकस्तथैकं रथिनं रथाग्र्यां--
स्तथा रथश्चापि रथाननेकान्॥ 8-79-5(58896)
रथं ससूतं सहयं च कञ्चि--
त्कश्चिद्रती मृत्युवशं निनाय।
निनाय चाप्येकगजेन कश्चि--
द्रथान्बहून्मृत्युवशे तथाश्वान्॥ 8-79-6(58897)
रथान्ससूतान्सहयान्गजांश्च
सर्वानरीन्मृत्युवशं शरौघैः।
निन्ये हयांश्चैव तथा ससादी--
न्पदातिसङ्घांश्च तथैव पार्थः॥ 8-79-7(58898)
कृपः शिखण्डी च रणे समेतौ
दुर्योधनं सात्यकिरध्यगच्छत्।
श्रुतश्रवा द्रोणपुत्रेण सार्धं
युधामन्युश्चित्रसेनेन सार्धम्॥ 8-79-8(58899)
कर्णस्य पुत्रं तु रथी सुषेणं
समागतं सृञ्जयश्चोत्तमौजाः।
गान्धारराजं सहदेवोऽक्षधूर्तं
महर्षभं सिंह इवाभ्यधावत्॥ 8-79-9(58900)
शतानीको नाकुलिः कर्णपुत्रं
युवा युवानं वृषसेनं शरौघैः।
समार्पयत्कर्णपुत्रश्च शूरः
पाञ्चालेयं शरवर्षैरनेकैः॥ 8-79-10(58901)
रथर्षभः कृतवर्माणभार्च्छ--
न्माद्रीपुत्रो नकुलश्चित्रयोधी।
पाञ्चालानामधिपो याज्ञसेनिः
सेनापतिः कर्णमार्च्छत्ससैन्यम्॥ 8-79-11(58902)
दुःशासनो भारत भारतं तु
व्यात्ताननं क्रूरमिवान्तकाभम्।
भीमं रणे शस्त्रभृतां वरिष्ठं
भीमं समार्च्छत्तमसह्यवेगम्॥ 8-79-12(58903)
कर्णात्मजं तत्र जघान वीर--
स्तथाच्छिनच्चोत्तमौजाः प्रसह्य।
तस्योत्तमाङ्गं निपपात भूमौ
निनादयद्गां निनदेन खं च॥ 8-79-13(58904)
सुषेणशीर्षं पतितं पृथिव्यां
विलोक्य कर्णोऽथ तदार्तरूपः।
क्रोधाद्धयांस्तस्य रथं ध्वजं च
बाणैः सुधारैर्निशितैरकृन्तत्॥ 8-79-14(58905)
स तूत्तमौजा निशितैः पृषत्कै--
र्विव्याध खङ्गेन च भास्वरेण।
पार्ष्णिग्रहांश्चैव कृपस्य हत्वा
शिखण्डिवाहं स ततोऽध्यरोहत्॥ 8-79-15(58906)
कृपं तु दृष्ट्वा विरथं रथस्थो
नैच्छच्छरैस्ताडयितुं शिखण्डी।
तं द्रौणिरावार्य रथं कृपस्य
समुज्जहे पङ्कगतां यथा गाम्॥ 8-79-16(58907)
हिरण्यवर्मा निशितैः पृषत्कै--
स्तवात्मजानामनिलात्मजो वै।
अतापयत्सैन्यमतीव भीमः
काले शुचौ मध्यगतो यथाऽर्कः॥ ॥ 8-79-17(58908)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे एकोनाशीतितमोऽध्यायः॥ 79 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-79-10 पाञ्चालेयं पाञ्चालीतनयं नाकुलिम्॥ 8-79-79 एकोनाशीतितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|